अष्टकवर्गनिर्माणविधिः

Author(s): प्रो.परमानन्दभारद्वाजः

Abstract:

होराशास्त्रस्य प्राचीनैः महर्षिभिः आचार्यैश्च सर्वेषां कर्मणाम् शुभाशुभफलानां परिज्ञानाय या पद्धतिः विकसिता, सा ‘अष्टकवर्ग’ इति नाम्ना ज्ञायते। अस्याः पद्धतेः विशेषज्ञानं विना बुद्धिमान् दैवज्ञोऽपि गुणदोषजन्यं शुभाशुभफलं सम्यक्तया ज्ञातुं न शक्नोति। अष्टकवर्गस्य ज्ञानेन मनुष्यस्य समस्तकर्मजनितं फलं वैज्ञानिकदृष्ट्यावगन्तुं शक्यते। अनया पद्धत्या फलादेशे सूक्ष्मता समायाति, यत्र व्यष्टिसमष्ट्योः अपूर्वसमन्वयस्य सिद्धान्तः दृश्यते।

PDF URL: View Article in PDF