आचार्य जि.एस्.आर्.कृष्णमूर्तिमहोदयस्य ‘ब्रह्मोत्सवतारावली’-एकम् अध्ययनम्।

Author(s): जोगेश्वर गडत्या

Abstract:

आधुनिककाले बहुकवयः नक्षत्रमालाकाव्यानि रचयन्ति। ‘नक्षत्रमाला’ काव्यस्य लक्षणप्रसङ्गे उच्यते- ‘सैव नक्षत्रमाला स्यात् सप्तविंशतिमौक्तिकैः’ इति। अर्थात् सप्तविंशतिमुक्तारुपसप्तविंशतिश्लोकान् स्वीकृत्य रचितं काव्यं नक्षत्रमालाकाव्यमुच्यते। ‘प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते’ इति वचनानुसारं नक्षत्रमालाकाव्यरचनायाः निश्चितम् उद्देश्यमस्ति। नक्षत्रमालाकाव्यं पठित्वा तत्र प्रतिपादितानां जीवनादर्शानां व्यवहारक्षेत्रे प्रयोगः क्रियते चेत्,जनः आदर्शपुरुषः भवितुं शक्नोति। तेन आदर्शजनेन परिवारः,पुनः परिवारेण ग्रामः तथा देशोऽपि प्रभावितः भवेत्। केचन तारावली केचन तारामाला केचन नक्षत्रमालिका इति वा नामकरणं कुर्वन्ति।तेषु ‘ब्रह्मोत्सवतारावली’ इति नक्षत्रमाला अन्यतमा। प्रभुवेंकटेशस्य ब्रह्मोत्सवमहिमा विषये अत्र वर्णितमस्ति।

PDF URL: View Article in PDF