काव्यमीमांसानुसारं वेदचर्चा

Author(s): डॉ. अञ्जली कबाटः

Abstract:

राजशेखरस्य काव्यमीमांसायां वेदस्य काव्यस्य च सम्बन्धविवेचनं विशेषगौरवेण प्रकाशते। वेदेषु अलङ्कारस्य मूलत्वं, तदनु अलङ्कारस्य सप्तमवेदाङ्गत्वेनोक्तिः, कविशास्त्रपरम्परायाम् अभिनवदृष्टिं प्रदर्शयति। उपमालङ्कारस्य प्राचीनप्रयोगम्, अर्थवादस्य च काव्यार्थनिरूपणे प्रमुखं स्थानं, राजशेखरः सुस्पष्टं प्रतिपादयति। अस्य लेखस्य मुख्योऽभिप्रायः यत् एतानि सर्वाणि तत्त्वानि शास्त्रीयपरिप्रेक्ष्येण समीक्ष्य राजशेखरमतस्य मौल्यमवलोकनमिति। एवं विस्तीर्णे विषयक्षेत्रे विचरन्त्या अध्येत्र्या नवीनसमीक्षापद्धतिः प्रतिपाद्यते।

PDF URL: View Article in PDF