Author(s): डॉ.भारती कौशल
Abstract:
एकविंशतितमशताब्द्याः तृतीयदशके मानवसभ्यतायाः इतिहासे महान् परिवर्तनकालः दृश्यते। अस्मिन् काले कृत्रिमबुद्धिमत्ता (Artificial Intelligence) केवलं यान्त्रिकनवोन्मेषः नास्ति, अपितु ज्ञानस्य, शिक्षायाः, अर्थव्यवस्थायाः, संस्कृतेः तथा च मानवीयनिर्णयप्रक्रियायाः सक्रियसहभागिनी अभवत्। शिक्षाक्षेत्रमपि अस्य परिवर्तनस्य प्रभावात् विमुक्तं नास्ति। अद्य कृत्रिमबुद्धिमत्ता वैयक्तिकाधिगमस्य, स्वचालितमूल्याङ्कनस्य, अनुसंधानसहायतायाः, आभासीयशिक्षणस्य तथा ज्ञानस्य शीघ्रप्राप्यतायाः माध्यमेन शिक्षायाः स्वरूपं पुनर्निर्धारयति। किन्तु अनेन सह एकः गम्भीरः दार्शनिकः प्रश्नः अपि उदेति—किं कृत्रिमबुद्धिमत्ता शिक्षायाः परमलक्ष्यं साधयितुं शक्नोति,अथवा सा केवलं ज्ञानसाधनमात्रम्? किं सूचनाविस्तारः एव शिक्षा,अथवा शिक्षायाः वास्तविकं प्रयोजनं मानवीयप्रज्ञायाः, विवेकस्य, आत्मबोधस्य च विकासः? प्रस्तुतस्य शोधालेखस्य उद्देश्यं कृत्रिमबुद्धिमत्तायाः मानवीयप्रज्ञायाश्च सम्बन्धस्य शिक्षादर्शनस्य दृष्ट्या विश्लेषणम् अस्ति। अस्मिन् भारतीयशिक्षादर्शनस्य, समकालीनशिक्षा-सिद्धान्तानाम्, कृत्रिमबुद्धिमत्तासम्बद्धसाहित्यस्य तथा नैतिकविमर्शानां समालोचनात्मकमध्ययनं कृतम्। अध्ययनस्य मुख्यप्रतिपादनम् अस्ति यत् कृत्रिमबुद्धिमत्ता ज्ञानस्य संगठनम्, विश्लेषणं प्रसारं च कर्तुं समर्था अस्ति, किन्तु सा मानवीयप्रज्ञायाः, नैतिकविवेकस्य, आत्मबोधस्य, करुणायाः तथा उत्तरदायित्वस्य विकल्पः न भवितुमर्हति। भविष्यस्य शिक्षायाः लक्ष्यं कृत्रिमबुद्धिमत्तेः मानवीयचेतनायाश्च मध्ये प्रतिस्पर्धां निर्मातुं न, अपितु उभयोः मध्ये सन्तुलितं दार्शनिकविवेचनम् विकसितुं भवेत्। एष एव विवेचना भविष्यस्य शिक्षां अधिकां मानवीयां, नैतिकां, सृजनशीलां च करिष्यति।
PDF URL: View Article in PDF
