Author(s): आचार्यः के. राजगोपालन्
Abstract:
काव्यवाङ्मये प्रमुखविषयो नाटकम्। मानवव्यवहारस्यानेके पक्षास्सार्वजनिकरूपेण द्रष्टुं शक्यन्ते। जीवानां सुखं दुखञ्च, हर्षशोकादयः, विविधमनोभावाः, विविधरुचयः, मनोरञ्जनस्य साधनानि, कलाः (गायनम्, क्रीडा, वास्तुकला, चित्रकला), संस्कृतिः, भाषा, परस्परव्यवहारः, वेषः, शृङ्गारः शिल्पम्, अलङ्कारः इत्यादिलोकव्यवहारो विविधसरणौ प्रवहति प्रकाशते च। एतल्लोकजीवनं रोचकमानन्ददायकञ्च कर्तुं नाटकस्य निर्माणमभवत्। यदा प्राकृतिकलोकव्यवहारो नाटकीयविकारद्वारा दृश्यमानो भवति तदा स मनोरञ्जको भवति, विभिन्नविधैस्संयोगैरानन्दञ्च जनयति। नाट्यशास्त्रसिद्धान्ताः लोककथानां ललितरूपेण प्रस्तुतीकरणस्य युक्तयस्सन्ति। आचार्यभरतो नाट्यशास्त्रे लोकव्यवहारं केन्द्रे संस्थाप्य नाट्यस्य नियमानामवतारमकरोत्। परन्तु कालेन विविधविप्रतिपत्तिकारणान्नाटकलक्षणम् आश्रित्य नाट्यकाराणां मतवैमत्यं दृश्यते। अतोस्मिन्प्रबन्धे सर्वेषां मतं विमृश्य नाटकलक्षणं प्रतिपाद्यते।
PDF URL: View Article in PDF
