Author(s): राजेन्द्रकुमारझा:
Abstract:
आचार्यपराशरमते नाभासयोगानां विविधताः 2800 सन्ति । परन्तु यत्र मुख्यरूपेण त्रय आश्रययोगाः, द्वौ दलयोगौ, विंशतिः आकृतियोगाः सप्त च साङ्ख्ययोगाः सन्ति । अतः आहत्यः द्वात्रिंशत् नाभसयोगाः सन्ति । तत्रोक्तं सङ्ख्याविषये बृहत्पाराशहोराशास्त्रस्य नाभसयोगनाम्नि चतुर्दशेऽध्याये । अधुना नाभसा योगाः कथयामि सविस्तरः । अष्टादशशतगुणितास्तेषां भेदाः समासतः ॥ आश्रयाख्यास्त्रयो योगाः दलयोगद्वयं ततः । आकृतिर्विंशतिः संख्या योगानां सप्तकं स्मृतम् ॥ रज्जुयोगो मूसलश्च नलो मालाभुजङ्गमौ । गदायोगश्च शकटः शृङ्गाटकविहङ्गमौ ॥ हलवज्रयवाश्चैव कमलो वापियूपकौ । शरशक्तिदण्डनौकाकूटछत्रधनूषि च ॥ अर्धेन्दुयोगश्चक्राख्यः समुद्रश्चेति विंशतिः । वीणादामनिकायोगः पाशकेदारशूलकाः ॥ युगगोलौ ततः प्रोक्तौ योगाद्वात्रिंशका इमे । तेषां च लक्षणं वक्ष्ये यथा बुद्धिविवेकतः ॥
PDF URL: View Article in PDF
