Author(s): बिजेन्द्र सिंह, डॉ. भारती कौशल
Abstract:
समाजस्य भाविनिर्मातृणां बालकानां व्यक्तित्वं, जीवनवृत्तिः, नैतिकता, शैक्षणिकसफलता च मुख्य-तया तेषां परिवारस्य मातापितृणां च व्यवहारेण प्रभाविता भवति। बालानाम् मानसिकतायाः, चिन्तन-क्षमतायाः, सामाजिककौशलस्य, आत्मविश्वासस्य च निर्माणे अभिभावकशैल्याः निर्णायक भूमिका भवति। भारते एताः अभिभावकशैल्याः सांस्कृतिकमूल्यानि, सामाजिक-आर्थिक-स्थितयः, व्यक्तिगत-अनुभवाः च प्रभाविताः भवन्ति। भारते अधिकतया मातापितरः स्वसन्ततिषु आधिकारिकं वा निरङ्कुशं वा दृष्टिकोणं स्वीकुर्वन्ति । परन्तु परिवर्तनशीलं भारतीयपरिदृश्यं दृष्ट्वा वर्तमानकाले मातापितृभिः प्रयुक्ताः अभिभावकशैल्याः अपि परिवर्तनशीलाः सन्ति । अस्मिन् शोधालेखे विद्यार्थिनां समग्रविकासे विभिन्नप्रकारस्य अभिभावकशैल्याः, आधिकारिकस्य, अनुमतस्य उपेक्षात्मकश्च अभिभाव-कत्वशैल्याः प्रभावस्य विश्लेषणं कृतम् अस्ति। एतेन सह सकारात्मक अभिभावकशैल्याः आधुनिक-वातावरणे तस्याः उपयोगितायाः च चर्चा कृता अस्ति ।
PDF URL: View Article in PDF
