मेघदूते रामायणस्य प्रभावः

Author(s): डॉ. अञ्जली कबाटः

Abstract:

कालिदासस्य मेघदूते रामायणकाव्यस्य प्रभावः अत्यन्तं सूक्ष्मतया परन्तु निःसन्दिग्धरूपेण प्रतिवीक्षितुं शक्यते। बाल्मीकिरामायणे निरूपितः रामस्य जनकात्मजाविरहजन्यः विषादभावः यथा सर्वत्र प्रकट्यते, तथैव मेघदूतेऽपि यक्षस्य भार्यावियोगजनितम् अतिशयदुःखम् आधारभूतं भावतत्त्वं च दरीदृश्यते। “विरहिणो न विरहदुःखस्य सीमा विद्यते” इति तत्त्वमुभयकाव्ययोः मुख्यसमन्वयबिन्दुः विद्यते। विशेषतः, यथा यक्षेण मेघद्वारा यक्षिणीं प्रति सन्देशः सम्प्रेष्यते तदेव हनुमता आरब्धं दूतकार्यं स्मार्यते तेन हनुमतैव प्रथमं रामस्य अभिलषितसन्देशः सीतायै अदीयत इति दूतकाव्यपरम्परायाः आदिमूलं रामायणे एव स्थितम् इति दरीदृश्यते। यक्षिण्याः स्वरूपेऽपि सीतायाः आदर्शस्त्रीस्वभावः, तस्याः पतिव्रतत्वञ्च अप्रत्यक्षमपि स्पष्टतया परिलक्ष्यते। एतादृशी चरित्रगतसमानता केवलमादर्शनारीस्वरूपे एव दृश्यते तथैव भूगोलवर्णने, मार्गचित्रणेषु, हृदयव्यथानिरूपणे च कालिदासः येन प्रकारेण बाल्मीकिकृतस्य रामायणस्य रसधारा अनुसृता, तेन मेघदूतम् केवलं दूतकाव्यस्य उत्कर्षस्थानं न प्राप्तम्, अपितु रामायणकाव्यपरम्परायाः काव्यमयीभावनायाः अपि वर्धनं कृतमिति।

PDF URL: View Article in PDF