Author(s): डॉ. मनीषा शर्मा
Abstract:
व्यञ्जयतीति व्युत्पत्त्या (वि + अञ्जु + णिच् + ल्युट् + टाप) व्यञ्जनाशब्दो निष्पन्नः। अतः आनन्दवर्धनाचार्यतः आरभ्य पण्डितराजजगन्नाथं यावत् ये खलु प्रसिद्धाः आलङ्कारिकाः आसन् ते सर्वे व्यञ्जनाव्यापारं प्रतिपादितवन्तः। यदुक्तं विश्वनाथेन – “विरतास्वभिधाद्यासु ययाऽर्थो बोध्यतेऽपरः। सा वृत्तिर्व्यञ्जना नाम शब्दस्यार्थादिकस्य च॥“ तत्र वृत्तौ सः प्रकाशयति - शब्दबुद्धिकर्मणां विरम्य व्यापाराभावः इति न्यायेन अभिधा – लक्षणा – तात्पर्याख्यासु तिसृषु वृत्तिषु स्वं स्वमर्थं प्रतिपाद्य विरतासु यया वृत्त्या अन्यः अर्थः बोध्यते सा व्यञ्जनध्वननगमनप्रत्यायनादिव्यपदेशविषयाशक्तिः व्यञ्जना नाम। साहित्यशास्त्रे ध्वनितत्त्वं सर्वोत्कृष्टं भवति। यथा वस्तुध्वनिः, अलङ्कारध्वनिः, रसध्वनिः इति। तत्र वस्तु वाच्यं भवति, व्यङ्ग्यमपि भवति। अलङ्कारोऽपि तथा। परन्तु रसः स्वप्नेऽपि न वाच्यः स तु वाच्याद् भिन्नः अर्थात् ध्वनिः। सर्वदा व्यङ्गरूपः। आनन्दवर्धनाचार्येण ध्वन्यालोके काव्यात्मनिरूपणप्रसङ्गे व्यञ्जनायाः महत्त्वमित्थं प्रतिपादितम् –
PDF URL: View Article in PDF
