Author(s): Dr. PTG Ranga Ramanujacharyulu
Abstract:
वेदोऽखिलो धर्ममूलमित्युक्तरीत्या सर्वधर्माणां निदानभूतः ऋगादिभेदेन चतुर्विधो वेदः। वेदे तावत् भगवत्स्वरूपगुणविभूतयः न्यरूपयन्। तस्यैव निगम इत्यपरं नाम। निगमप्रतिद्वन्द्वि शब्दः आगमः लोके वरीवर्ति। आगमास्तावत् भगवतः अनुग्रहसिध्यर्थं क्रियमाणविधीनां बोधक इति पूर्वाचार्याः सङ्गिरन्ते। आगमो नामानादिसम्प्रदायसिद्ध -गुरुशिष्यपरम्परोपदेशक्रमागतः शास्त्रविशेष इत्यभिनव -देशिका श्रीमन्त उत्तमूरुवीरराघवाचार्याः लक्ष्मीतन्त्रग्रन्थस्योपोद्घाते उचुः। आङ् इत्युपसर्गपूर्वक गम्ल्-गतौ इत्यस्माद्धातोः गृहवृदृनिश्चिगमश्च1 इति पाणिनि सूत्रानुसारं अप् प्रत्यये आगमशब्दः निष्पन्नः। भगवदाराधनाबोधकं शास्त्रमित्यर्थः। आगम्येते प्रमीयेते हिताहित-प्राप्तिपरिहारौ इत्यागमः। एवं निश्चीयेत् नितरां आत्मतत्त्वं येनासौ आगम इत्यर्थः। आराध्यदेवतानु-सारमागमाः वैदिका-वैदिकभेदेन द्विविधम्। वैदिकाः वैष्णवशैवशाक्तभेदेन पुनः त्रिविधाः। वैष्णवागमः वैखानसपाञ्चरात्रभेदेन द्विविधः।
PDF URL: View Article in PDF
