अद्वैतवेदान्तदिशा अनिर्वचनीयत्वप्रतिपादनम्

Author(s): Dr.Monojit Mukherjee

Abstract:

अद्वैतवेदान्ते अनिर्वचनीयत्वम् अज्ञानस्य एव लक्षणम्। अज्ञानस्य लक्षणं सन्दर्भे वेदान्तसारे उक्तम् अस्ति अज्ञानं तु सदसद्भ्यामनिर्वचनीयं, त्रिगुणात्मकं ज्ञानविरोधि:, भावरूपं यत्किञ्चिदिति। तेषु इत्येतेषु अनिर्वचनीयम् एकम्। अनिर्वचनीयस्य लक्षणसन्दर्भे उच्यते सदसद्विलक्षणं अर्थात् अज्ञानं सद् न, असदपि न इति, तदर्थं इदं अनिर्वचनीयम् इति आख्यायते । अज्ञानस्य आश्रयः विषयः च ब्रह्म इति । यदा ज्ञानं जायते तदा अज्ञानं अपि नश्यते, तेन सह जरा, बन्धः, दुःख, क्लेशः इत्यादिभ्यः जीवाः मुच्यन्ते। ब्रह्मणि नेत्रेन्द्रियं गन्तुं नैव शक्नोति, यतो हि तस्मिन् गति न सम्भवति । ब्रह्म शब्दानां इन्द्रियाणां च आत्मा, यथा अग्नि दाहकः, प्रकाशकः सन् अग्निना, अग्नि न प्रकाश्यते, मनसा मनः न सङ्कल्पते, निश्चीयते च । यतो हि ब्रह्म मनसः आत्मा । इन्द्रियै मनसा च वस्तुज्ञानं सम्भवति । ब्रह्म निर्विषयकत्वात् ब्रह्म विषयः न ।

PDF URL: View Article in PDF