Author(s): डॉ. मनुदेवः
Abstract:
सामान्यतः तद्वत्ताबुद्धिम्प्रति तदभाववत्तानिश्चयस्य तदभावव्याप्यवत्तानिश्चयस्य च प्रतिबन्धकत्वं भवति,तादृशप्रतिबन्धकत्वाभावनिश्चयत्वेन तदभाववत्तानिश्चयाभावस्य तदभावव्याप्यवत्तानिश्च-याभावस्य च कारणत्वंतद्वत्ताबुद्धौ स्वीक्रियते। यतो हि यत्कार्य प्रति यस्य प्रतिबन्धकता भवति तत्कार्यप्रतिबन्धकीभूतस्य वस्तुनःअभावः कारणं भवति। इत्येवं कार्यकारणभावानुरोधेन कदाचिद्दोषविशेषाजन्यज्ञाने लौकिकसन्निकर्षजन्यज्ञानेवा विशेषदर्शनस्य प्रतिबन्धकता भवति। अत्र यदि उच्यते प्रत्यक्षात्मकतद्वत्ताबुद्धावेव विशेषदर्शनस्यप्रतिबन्धकत्वं कल्पनीयम्। तन्नोचितम्। सामान्यरूपेणैलौकिकसन्निकर्षजन्यदोषविशेषाजन्यतद्वत्ताबुद्धिसामान्यंप्रति तदभावव्याप्यवत्तानिश्चयस्य प्रतिबन्धकत्वाभ्युपगमे कस्यचन बाधकस्याभावात्, अथ चबोध्यविषयाभावव्याप्यवत्तानिश्चयस्य तद्वत्ताविषयकशाब्दबुद्धित्वावच्छिन्नं प्रति प्रतिबन्धकत्वस्यानुभवसिद्धत्वात्।
PDF URL: View Article in PDF
