Author(s): Dr. Nigamananda Panigrahi
Abstract:
भारतीयदर्शनपरम्परायां वेदान्तदर्शनं परमप्रधानं दार्शनिकदर्शनम् इति सर्वैरपि स्वीकृतम्। वेदान्तस्य प्रमुखप्रयोजनं ब्रह्मस्वरूपस्य प्रतिपादनं, जीवब्रह्मणोरैक्यस्य प्रकाशनं, संसारबन्धस्य कारणनिरूपणं, मोक्षस्य साधनस्वरूपप्रतिपादनं चेति। एतेषां सर्वेषां विषयाणां सम्यगवगमः अविद्यातत्त्वस्य विवेचनं विना न सम्भवति। अत एव अद्वैतवेदान्ते अविद्या केवलं गौणो विषयः न, अपितु सम्पूर्णसिद्धान्तस्य केन्द्रबिन्दुरूपेण परिगण्यते। आदि शङ्कराचार्य प्रतिपादयति यत् परमार्थतः ब्रह्मैव सत्यम्, जगन्मिथ्या, जीवो ब्रह्मैव नापरः। किन्तु प्रत्यक्षे सर्वे जनाः स्वात्मानं देहादिभिः सहाभिन्नं मन्यन्ते, कर्तृत्वभोक्तृत्वादिधर्मान् स्वात्मनि कल्पयन्ति, सुखदुःखाद्यनुभवान् स्वाभाविकानिव गृह्णन्ति। एष एव विरोधः अद्वैतवेदान्ते “अध्यासः” इति प्रसिद्धः। तस्य मूलकारणं अविद्या इति शाङ्करवेदान्तस्य निश्चयः। तदेव ब्रह्मसूत्रभाष्यम्-अध्यासभाष्ये प्रसिद्धया उक्त्या प्रतिपादितम्
PDF URL: View Article in PDF
