Author(s): प्रो. के. अनन्तः
Abstract:
भारतीयदर्शनपरम्परायां आत्मतत्त्वस्य स्वरूपनिरूपणं प्रधानविषयत्वेन परिगण्यते। तत्र आत्मनः ज्ञातृत्वं, कर्तृत्वं, भोक्तृत्वं च प्रमुखधर्मत्वेन विविधैर्दर्शनाचार्यैर्विचारितम्। विशिष्टाद्वैतवेदान्तस्य प्रवर्तकेण भगवान् श्रीरामानुजाचार्येण आत्मा स्वभावतः ज्ञानाश्रयः, ज्ञाता, कर्ता, भोक्ता च इति सिद्धान्तः प्रतिपादितः। आत्मा न केवलं ज्ञानमात्रस्वरूपः, अपितु धर्मभूतज्ञानविशिष्टः स्वतन्त्रपरमात्माधीनः चेतनद्रव्यविशेषः इति तस्य मतम्। श्रीभाष्ये, वेदार्थसंग्रहे, गद्यत्रये तथा गीताभाष्ये च श्रीरामानुजाचार्यः आत्मनः ज्ञातृत्वं प्रमाणैः, युक्तिभिः, श्रुतिस्मृतिपुराणप्रमाणैश्च सुस्पष्टं निरूपयति। आत्मा ज्ञानस्य आश्रयभूतः सन् ज्ञानेन विषयानवगच्छति, न तु ज्ञानमेव भवति। धर्मभूतज्ञानस्य सङ्कोचविकासरूपपरिणामेन जीवस्य संसारदशा तथा मोक्षदशा च व्याख्यायते। मोक्षावस्थायां धर्मभूतज्ञानस्य अनन्तविकासः सम्पद्यते, तदा जीवः परमात्मानं साक्षादनुभवति।
PDF URL: View Article in PDF
