Author(s): विश्वरञ्जनसाहुः
Abstract:
धर्मशास्त्रीयसिद्धान्तस्तु सूत्रपरम्परायां सर्वादौ गौतमबौधायनापस्तम्बप्रभृतिधर्मसूत्रेषु नैकशास्त्र-सम्मतविहितकर्मणां प्रतिपत्तिविधायकत्वेन श्लाघ्यते। धर्मसूत्रेषु प्रायशः प्रमुखत्वेन प्रतिपाद्यविषयाः आश्रमधर्मनिरूपणं तद्बोधकधर्मः तद्गतवर्णादिव्यवस्था च। परन्तु आपस्तम्बधर्मसूत्रे नैकप्रयोगो दृश्यते यत्र स्पष्टमनुमीयते यदत्र मीमांसाशास्त्रस्य प्रसक्तिः व्यज्यते। अत्र मीमांसायां प्रतिपादितधर्मसिद्धान्तः चोदनालक्षणार्थो धर्मरूपत्वे स्वतः प्रयोगः नैकसूत्रेषु तत्परकविनियोगश्च लक्ष्यते। न केवलं पूर्वमीमांसा-शास्त्रत्वेन जैमिनेः मतं दृश्यते अपितु उत्तरमीमांसाशास्त्रोक्ताध्यात्मिकक्रियाविधिः आत्मज्ञानस्वरूपं गौतमाद् बौधायनाद् वा विलक्षणस्वरूपमापस्तम्बधर्मसूत्रे प्राप्यते।
PDF URL: View Article in PDF
