उत्तररामचरिते वासन्तीचरित्रनिरूपणम्

Author(s): डॉ. गुन्जन शर्मा

Abstract:

प्रबन्धेऽस्मिन्करुणारसप्रियधर्मपरायणोदुम्बरवंशीयमहाकविभवभूतिकृतोत्तरराम-चरिते वासन्तीचरि-त्रस्य निरूपणं वर्तते। नाटके यथा मुख्यपात्रयोजना परमावश्यकी भवति तथैव गौणपात्रयोजनाऽपि महत्यावश्यकीति भवभूतिविरचितरामचरिते प्रस्फुट्यते। गौण-पात्रेष्वेव सीतासखीत्वेन भवभूतिना करुणरसपरिस्फुटनाय वनदेवीरूपेण वासन्तीचरित्रं न्यरूपि। तत्रोत्तररामचरिते छायानामकतृतीया-ङ्केऽतीवप्रसिद्धचरित्रमिदं वरीवर्ति। तस्य चरित्रस्य नाटके कथं प्रतिपादितं तत्सर्वमत्र प्रतिपाद्यते। तस्याः वासन्त्याः के गुणाः अस्मिन्नाटके वर्तन्ते तदप्यालोच्यते।

PDF URL: View Article in PDF