काव्यशास्त्रेऽन्यशास्त्राणां प्रभावः

Author(s): डॉ. लालसिंहपठानिया

Abstract:

कवेः कर्म काव्यमुच्यते तत्र काव्यमधिकृत्यं शास्त्रं काव्यशास्त्रमित्यपि वक्तुं शक्यते नास्त्यत्र काऽपि विप्रतिपत्तिः । प्राचीनकालेऽस्मिन् भारतवर्षे यैराचार्यैर्मनीषिभिः काव्यशास्त्रसिद्धान्तानां विकासो निष्पादितः, ते न केवलं काव्यशास्त्रस्य ज्ञातारः पण्डिता वा बभूवुः अपि त्वन्येषामनेकेषां शास्त्राणां व्याकरणदर्शनादीनामपि तत्त्वानाम् अभिज्ञा अवर्तन्त। अतः स्वाभाविकमेतद्यत्काव्यशास्त्रविवेचना अन्यैरपि शास्त्रैः प्रभाविता भवेत्। अयमेव हेतुर्यत् संस्कृतकाव्यशास्त्रविकासेऽन्येषां शास्त्राणां प्रभावः स्वभावतो ध्रुवं परिलक्षितो भवति। काव्यशास्त्रं प्राध्यान्येन यैः शास्त्रैः प्रभावितं सञ्जातं तानि सन्ति व्याकरण-न्याय-साङ्ख्य-पूर्वोत्तरमीमांसाः। प्रभावस्याऽस्य संक्षिप्तदिग्दर्शनं काव्यशास्त्रजिज्ञासुभ्य उपयोगि वर्तते।

PDF URL: View Article in PDF