कृत्रिमवुद्धिमत्तायाः विकासे भाषाज्ञानतत्त्वस्य अवदानम्

Author(s): डॉ. सस्मिताबन्दरनायकः

Abstract:

कृत्रिमवुद्धिमत्ता (Artificial Intelligence) इत्येषा आधुनिकविज्ञानस्य अत्यन्तं प्रभावशालिनी शाखा वर्तते, या मानववुद्धेः अनुकरणं कृत्वा यन्त्रेषु चिन्तन-निर्णय-समाधानादिकं कार्यं साधयति। अस्याः विकासे भाषाविज्ञानस्य (Linguistics) अवदानं विशेषतः उल्लेखनीयम् अस्ति। भाषाविज्ञानं मानवभाषायाः संरचनां, अर्थव्यवस्थां, प्रयोगविधिं च विश्लेषयति, यानि सर्वाणि तत्त्वानि कृत्रिमवुद्धिमत्तायाः मूलाधाररूपेण स्वीकृतानि सन्ति। ध्वनिविज्ञानं (Phonetics) तथा ध्वन्यात्मकविज्ञानं (Phonology) वाक्-परिचयप्रणालीनां (Speech Recognition Systems) विकासे सहायके भवतः। शब्दविज्ञानं (Morphology) तथा वाक्यरचनाविज्ञानं (Syntax) भाषानिर्माणे, स्वचालितवाक्यविश्लेषणे च उपयोगिनी वर्त्तेते । अर्थविज्ञानं (Semantics) तथा प्रयोगविज्ञानं (Pragmatics) यन्त्रेभ्यः भाषायाः अर्थग्रहणं, सन्दर्भानुसारं प्रतिक्रियां च दातुं समर्थयतः। प्राकृतिकभाषाप्रक्रिया (Natural Language Processing) इति क्षेत्रं भाषाविज्ञानस्य सिद्धान्तानाम् आधारेण एव विकसितम् अस्ति। यन्त्रानुवादः, संवादयन्त्राणि, स्वचालितलेखनप्रणाल्यः, भावविश्लेषणम् (Sentiment Analysis) इत्यादयः अनुप्रयोगाः भाषावैज्ञानिकज्ञानं विना सम्भवाः न भवन्ति। विशेषतः बहुभाषिकपरिवेशे भाषाविज्ञानस्य भूमिका अत्यन्तं महत्त्वपूर्णा वर्तते, यतः भाषा-वैविध्यस्य समाधानं तेनैव साध्यते। एवंरूपेण प्रस्तुते लेखे भाषातत्त्वज्ञानस्य कृत्रिमबुद्धिमत्तायाः सम्वर्धने योगदानमत्र विविच्यते ।

PDF URL: View Article in PDF