Author(s): शिवम दुबे, प्रो.परमानन्दभारद्वाजः
Abstract:
भारतीयज्योतिषशास्त्रं केवलं जातकविचारस्याथवा व्यक्तिजीवनफलादेशस्य शास्त्रं नास्त्यपितु तत्र राष्ट्रजीवनस्य ऋतुपरिवर्तनस्य वृष्टेः कृषेः धान्योत्पादनस्य वाणिज्यस्य वस्तुमूल्यानाञ्च विचारोऽपि विस्तरेण प्राप्यते। प्राचीनज्योतिषग्रन्थेषु ग्रहाणां विशिष्टनक्षत्रेषु सञ्चारस्याधारेण लोकस्थितेस्तथा विविधवस्तूनां मूल्यपरिवर्तनस्य फलानि निरूपितानि सन्ति। प्रस्तुतशोधलेखे मङ्गलबुधगुरुशुक्राणां सप्तविंशतिनक्षत्रेषु सञ्चारसम्बद्धानि फलान्याधारत्वेन स्वीकृत्य तेषामाधुनिकां-शविपण्यया सह सम्भाव्यसम्बन्धस्समीक्ष्यते। अत्र विशेषतः धान्यानां, धातूनां, सुवर्णरजतयोः कार्पासस्य तैलस्य गुडस्य वस्त्राणां च मूल्यवृद्धि-मूल्यह्राससम्बद्धाः निर्देशाः विचारिताः। एतेषामेव निर्देशानामाधुनिकविस्ताररूपेणांशविपण्याः विविधक्षेत्राण्यपि विवेचनविषयत्वेन स्वीकृतानि। तथापि ग्रहगोचरफलानि प्रत्यक्षतयांशमूल्यानि निर्णीयन्तीति निष्कर्षः न क्रियते। अपि तु पारम्परिकज्यो-तिषीयमान्यतानां व्यवस्थिताध्ययनस्यैतिहासिकतुलनायाः, सांख्यिकीयपरीक्षणस्य च आवश्यकता प्रतिपाद्यते। अस्याध्ययनस्य प्रमुखोद्देश्यं ज्योतिषपरम्परायाः आर्थिकचिन्तनात्मकपक्षस्य परिचयः, ग्रहनक्षत्रफलानां वर्गीकरणमाधुनिकवित्तीयव्यवस्थायां तेषां सम्भाव्योपयोगस्य मर्यादा-निर्धारणं चास्ति।
PDF URL: View Article in PDF
