Author(s): श्रीकान्त विश्वास
Abstract:
स्तूयते अनेन इति स्तोत्रम्। येन स्तूयते तत् स्तोत्रं, गुणसंकीर्तनात्मकम्। स्तवनात् ज्ञायते इति स्तोत्रम् इत्यपि वक्तुं शक्यते। स्तवः, स्तुतिः, नुतिः इत्यनर्थान्तरम्। एवं च श्रद्धानदीविमलचित्तजलाभिषेकैः वाक्कुसुमैश्च क्रियमाणं यत् देवताराधनं तदेव स्तोत्रमिति निश्चप्रचम्। सुविशाले संस्कृतसाहित्ये स्तोत्रसाहित्यमपि विशिष्टस्थानं समलङ्करोति। संस्कृतसाहित्यं द्वेधा विभज्यते - वैदिकसाहित्यं, लौकिकसाहित्यञ्चेति। तत्र वैदिकसाहित्ये वेदाः, उपवेदाः, वेदाङ्गानि, ब्राह्मणानि, दर्शनानि, पुराणानि, लौकिकसाहित्ये च रामायणमहाभारतादि आर्षकाव्यानि, खण्ड़काव्यानि, नाटकानि, गद्यपद्यमय-चम्पूकाव्यानि संगृहीतानि। एषु साहित्यप्रकारेषु दध्नि नवनीतमिव, तिले तैलमिव स्तोत्राणि अन्तर्भूतानि सन्ति। प्राचीनवेदसाहित्यादारभ्य अर्वाचीनसाहित्यपर्यन्तं तत्र तत्र स्तोत्राणि विलसन्ति। स्तोत्रसाहित्यस्य स्वकीयं महत्वपूर्ण स्थानं विद्यते एव। स्तोत्रकाव्येषु कवयः भगवतः महिमवर्णनद्वारा भक्तिभावसमन्वितां परमात्मप्रार्थनां कुर्वन्ति। स्तोत्रसाहित्यं गीतिकाव्यामिति प्रथितम्। गीतिकाव्यानि स्तोत्राणि मानवेषु विशेषेण विद्यमानं भावशक्तिं प्रचोद्य तान् भगवद्भक्तिमार्गे गन्तुं समुपकुर्वन्ति। संसारचक्रे भम्भ्रम्यमाणाः संसारिणो जीवाः अनन्यभक्त्या परमात्मानं स्तुत्वा स्वेषां नैजस्वरूपं परमात्मानमेव प्राप्नुवन्ति। यथा तड़ागाद्युदकं सूर्यकिरणैः सूक्ष्मरूपेणाभ्रं भूत्वा वृष्टिरूपेण पुनः पूर्ववत् जलभावं भजते, तथा परब्रह्मणः सकाशात् समुत्पन्नाः परमार्थतः परंज्योतिस्वरूपाः जीवाः संसारे निमग्नाः तापत्रयसंतप्ताः सद्गुरूपदेशेन परमात्मनः मायाकल्पितानि नैकविधानि रूपाणि श्रद्धाभक्तिपुरस्सराः निरन्तरं स्तुवन्ति। एवं क्रमशः स्तोत्रेण निर्मलान्तःकरणाः परमात्मसाक्षात्कारमनुभूय परंज्योतिस्वरूपं स्वस्वरूपं भजन्ते। एतादृशं स्तोत्रसाहित्यं द्विविधं वर्तते। कानिचन स्तोत्राणि केवलभक्तिप्रधानानि आत्मसमर्पणरूपेण निर्णीतानि। कानिचन भक्त्यात्मसमर्पणं भगवदाराधना सहितं वेदान्ततत्त्वमपि बोधयन्ति। तादृशस्तोत्राणि बहूनि उपलभ्यन्ते।
PDF URL: View Article in PDF
