पण्डितहरिप्रसादद्विवेदिशास्त्रीविरचितस्य गोस्वामितुलसीदासचरितमहाकाव्ये महाकाव्यलक्षणसमन्वयः

Author(s): नन्दिनी देहेरी

Abstract:

संस्कृतसाहित्ये काव्यं नाम अत्यन्तं महत्वपूर्णं साहित्यरूपमस्ति। काव्यस्य द्वे प्रमुखे भेदे स्तः- श्रव्यकाव्यं दृश्यकाव्यञ्च। श्रव्यकाव्येषु महाकाव्यं प्रमुखतमं गौरवपूर्णं च काव्यरूपं मन्यते। महाकाव्यं न केवलं काव्यरचना,अपितु संस्कृतसंस्कृतेः, धर्मस्य, नीतिशास्त्रस्य, इतिहासस्य च दर्पणरूपेण प्रतिष्ठि-तमस्ति। अतः संस्कृतवाङ्मये काव्यपरम्परायां महाकाव्यं शिरोमणिमिति कथ्यन्ते। संस्कृतसाहित्य-शास्त्रे महाकाव्यानां चर्चा सर्वप्रथमे भामहेन कृतवान्। तत्पश्चात् दण्डिः विश्वनाथकविराज-आनन्दवर्धन स्वस्वालङ्कारिकग्रन्थे महाकाव्यलक्षणस्वरूपश्च विषये प्रतिपादितवन्तः। महाकाव्यस्य व्युत्पत्तिः यदि पश्यामः ‘महत्काव्यं’ महाकाव्यमिति कथ्यन्ते। वाल्मीकिरामायणे महाकाव्यमिति शद्बस्य वर्णना दृश्यते

PDF URL: View Article in PDF