Author(s): प्रो. प्रभाकरप्रसादः
Abstract:
वैयाकरणाः इत्थं मन्यन्ते अस्ति हि गणपतिरित्यादिपदेभ्यो गकारादिवर्णश्रवणसमनन्तरमर्थबोधः सर्वानुभवसिद्धः। स बोधः नैकैकस्माद्वर्णा-द्भवितुमर्हति; वर्णान्तराणां वैय्यर्थ्यापातात्। नापि वर्णसमुदायाद् भवितुमर्हति, वर्णसमुदायस्यासम्भवात्। वर्णानाममूर्ततया नित्यत्वपक्षे विभुत्वादेव वर्णसमुदायो न सम्भवति । वर्णानामनित्यत्वपक्षे क्षणिकत्वादेव वर्णसमुदायो न सङ्गच्छते। नापि वर्णसमुदायस्मृतेर्वा पदार्थबोधो भवितुमर्हति, क्रमश उच्चरितानामनेकवर्णानां युगपदेकज्ञानजनकत्वा-भावात्, युगपदेकस्मृतिजनकत्वाभावात् वर्णसमुदायज्ञानस्य वर्णसमुदायस्मरणस्य वासम्भवात् । एवं स्थितौ कथं पदार्थबोध उपपाद्यः इति चिन्तायामवश्यं गकारादिवर्णानां भेदेऽपि "गणपतिपदादेकस्मादयमर्थो ज्ञायते", "एकोऽयं शब्द" इति प्रतीत्या वर्णेभ्योऽतिरिक्तः कश्चन पदार्थबोधजनकः पदार्थः स्वीकार्यः इति निश्चीयते । तदुक्तं ग्रन्थकारैः-
PDF URL: View Article in PDF
