परिहासविजल्पिते ध्वनिविमर्शः

Author(s): अनिलकुमारशुक्लः

Abstract:

संस्कृतकाव्यशास्त्रे ध्वनेः सिद्धान्तरूपे प्रतिष्ठा आचार्यानन्दवर्धनस्य मौलिकचिन्तस्य प्रतिफलमस्ति । आचार्यादस्मात्पूर्वमपि भामह-दण्डी-वामनोद्भटादिभिराचार्यैरलङ्कारगुणरीत्यादिकाव्यतत्त्वमाध्यमेन काव्ये चमत्कारोद्घाटनस्य प्रयासः कृतः । आनन्दवर्धनो ध्वनिना काव्यसौन्दर्यस्यात्मपरकां व्याख्यां प्रकट्य परवर्तिकाव्यार्थं कवीनामर्थञ्च नितान्तनूतनदिशोऽन्वेषणं कृतवान् ।

PDF URL: View Article in PDF