पुरुषार्थचतुष्टयसाधनाय आचारस्य अनिवार्यता

Author(s): डॉ.शकुन्तलादाशः

Abstract:

अयं शोधलेखः भारतीयधर्मशास्त्रपरम्परायाम् आचारस्य परममहत्त्वं विवेचयति। धर्मः श्रुतिस्मृतिषु सैद्धान्तिकरूपेण प्रतिपादितः सन् यदा जीवनव्यवहारे आचरणरूपेण अवतीर्णो भवति, तदैव स यथार्थतः धर्मः इति अस्मिन् अध्ययने प्रतिपाद्यते। श्रुति-स्मृति-आचार-आत्मतुष्टिरूपेषु धर्मप्रमाणेषु आचारः व्यवहारात्मकधर्मस्य मूलाधारः इति निष्कर्षः स्थाप्यते। मनुस्मृति-वसिष्ठधर्मसूत्र-पराशरस्मृत्यादिग्रन्थेषु प्रतिपादितानां श्लोकानां विश्लेषणेन अत्र दर्श्यते यत् सदाचारः केवलं धार्मिकनियमः न, अपि तु व्यक्तित्वनिर्माणस्य, सामाजिकस्थैर्यस्य, नैतिकमूल्यसंर-क्षणस्य तथा पुरुषार्थचतुष्टयसाधनस्य केन्द्रीयसाधनं भवति। आचारात् आयुः, आरोग्यं, यशः, प्रजाः, धनं च लभ्यते, दुराचारात् तु निन्दा, व्याधिः, अल्पायुः तथा धर्मविच्युतिः जायते इति धर्मशास्त्रीयनिश्चयः अत्र स्पष्टतया प्रतिपादितः।

PDF URL: View Article in PDF