Author(s): Krishnananda B M
Abstract:
ज्योतिःशास्त्रे प्रोषितप्रश्नः गरिमाणम् आवहति । अस्मिन् प्रश्नविभागे प्रवासगतः आयास्यति वा न वा? बद्धः वा? मृतः वा? जीवति चेत् पुनरागमनं कथम्? केन यानेन आगमिष्यति? कदा आगमिष्यति? इत्याद्यंशाः विव्रियन्ते । याता कदा आगमिष्यति ? इति वक्तुं नैकप्रकाराः विशदीकृताः शास्त्रग्रन्थेषु । कालपरिज्ञानविषये होराग्रन्थेषु प्रश्नग्रन्थेषु अन्यद्विषयव्याख्यानावसरे अपि शास्त्रकाराः प्रास्तुवन् । तान् कान्श्चन अंशान् एकत्र सङ्कलय्य विव्रियन्ते ।
PDF URL: View Article in PDF
