प. पू. श्रीवासुदेवानन्दसरस्वतीस्वामिन: शिष्या: एव तत्कालीन साधव:

Author(s): अर्चना बोंदरे, डॉ. राघवेन्द्र: भट्ट

Abstract:

भारतः खण्डविभक्तः देशः अस्ति। भारतदेशे आरम्भादेव अनेकाः जातिः, अनेकाः धर्मपन्थाः, अनेकाः प्रान्ताः, अनेकाः भाषाः, अनेकाः परम्पराः, अनेकाः सम्प्रदायाः च आसन्, तथापि एतेषु अनेकेषु अपि एकः एव सर्वसम्मतः विषयः आसीत् - स च भारतीयसंस्कृतेः विकासः। आध्यात्मिक-पौराणिक-ऐतिहासिककालात् अस्मिन् देशे अनेकजातियाः च अनेकधर्मियाः च जनाः निवसन्ति। यवनैः ख्रिस्तीयैः च केवलं देशस्य उपरि न तु भारतीयसंस्कृतौ अपि स्वीयः अधिकारः प्रवर्तितः, धार्मिकस्थानानि लुण्ठितानि येन प्रकारेण भारतीयसंस्कृतिः नष्टा भूत्वा, तस्याः समाप्तिः च आरब्धा। परन्तु आसु परिस्थितिषु अपि भारतीयसंस्कृतिः सदा स्थिता। एषः एव कदाचित् विधातुर्निर्णयः आसीत्। दीर्घकालीनं आध्यात्मिकं धार्मिकं च वैचारिकं च संकटं प्रति यत् संग्रामं करोति, सा भारतीयसंस्कृतिः सम्भवतः जगति एकैका एव संस्कृति अस्ति। अस्याम् भारतीयसंस्कृतौ हिन्दुधर्मस्य विशेषं अद्वितीयं च स्थानं अस्ति। यदा यदा धर्मे महत्संकटं जायते, तदा तदा विधाता विविधरूपाणि अवताररूपेण धारयित्वा समाजं सम्यक् धर्ममार्गे स्थापयति, च तदाक्रमणस्य मूलं ध्वंसयति, येन धार्मिकजागरणस्य आरम्भः भवति। एवमेव एते विधातुः अवताराः "भगवान् वा सन्तविभूतयः वा" इति संज्ञां प्राप्नुवन्ति।

PDF URL: View Article in PDF