“भारतीयज्ञानपरम्परायां किरातार्जुनीयमहाकाव्यस्य वैशिष्ट्यम्”

Author(s): धीरजकुमारचौधरी

Abstract:

भारतीयज्ञानपरम्परायां भारतीयसंस्कृते: पोषकान्यनेकानि महाकाव्यानि कविभि: विरचितानि सन्ति।तानि सर्वान्यप्येतस्य भारतीयसमाजस्य ज्ञानपरम्पराया: संवाहकानि प्रकाशकानि च सन्ति।तेष्वखिलेष्वपि महाकाव्येषु किरातार्जुनीयमद्वितीयं तथा विशिष्टञ्च वर्तते।महाकविना भारविना विरचितं किरातार्जुनीयमेकं विशिष्टं महाकाव्यं वर्तते यत् बृहत्त्रयीमहाकाव्येष्वपि परिगण्यते महत्वपूर्णं स्थानञ्च विधत्ते।महाकाव्यमिदमर्थगाम्भीर्यदृष्ट्याऽत्यधीकं गाम्भीर्ययुक्तं वर्तते।तस्मादुक्तमुद्भट्टमहा-कविना-"भारवेरर्थगौरवम्" इति।अत्रार्थगौरवं नामाऽल्पेषु शब्देषु विपुलार्थस्य सन्निवेश इति।तदर्थस्य प्रतिपादकमेकं वाक्यं वर्तते बहुप्रसिद्धं हिन्दीभाषायां कुत्रचित् तद्यथा-"गागर में सागर भरना" (लघुघट एव सागरपूर्णमिति)। तद्वदेवैतस्य भारवे: महाकाव्यस्य वैशिष्ट्यमस्ति यदल्पशब्देनैवाऽनेकेषां गूढभावानां सहजतया प्रकाशनमिति।तस्मादेतस्य महाकवे: एनं गुणमेवोन्मुक्तकण्ठेन प्रशंसति महाकविर्दण्डी अवन्तिसुन्दरीकथायाम्।तद्यथा-

PDF URL: View Article in PDF