भारतीयभाषासन्दर्भे कातन्त्रव्याकरणस्य महत्वम्

Author(s): जगतनारायण बेहेरा, डॉ.नन्द किशोर तिवारी

Abstract:

अस्यां सृष्टौ पशुपक्षिणः, मानवाश्च स्व चिन्तनशक्तेः, विचारशक्तेश्च येन माध्यमेन,यैर्वा संकेतै स्वमनोभावं प्रकाशयन्ति, सा भाषा इति उच्यते । भाषा इति शब्दः अप्रत्ययान्तात् भाष इति प्रातिपदिकात् टाप् प्रत्यये सति निष्पद्यते । भाष्यते व्यक्तवागरूपेण अभिव्यज्यते इति भाषा । पशुपक्षिणां वाक्,भावाः विविधानि चिह्नानि मानवभाषा च भाषायाम् अर्न्तभूताः भवन्ति । पशुवाक्- भाषा शब्दः पशुपक्षिणां वाक्यानां कृते अपि प्रयुज्यते यथा – श्वान वानरयोः च भाषा, काक पिकयोः च भाषाः। संसारेऽस्मिन् पशुपक्षिणः विविधैःशब्दैः स्वभावं प्रकटयन्ति । अङ्गसंचालनभाषा - हस्तश्चक्षुः शिरःआदीनाम् अङ्गसंचालनेन या भाषा कथ्यते सा अपि भाषा उच्यते । शिरः अग्रे अवनयनेन “आम्” इति वामे दक्षिणे कम्पनेन च “न” इति ज्ञायते तथा चक्षुषचालनं गतिं सूचयन्ति । शरीरस्य गतिविधिश्च अपि भाषाः इति मन्यते । संकेतभाषा- सैनिकाः, नाविकाः,आरक्षकाश्च दूरतः स्व सहचरानां कृते विविधानि संङ्केतानि प्रयोगं कृत्वा वार्तालापं कुर्वन्ति। तथा च कतिपयः अधिकारीणोऽपि स्वभावं प्रकाशनाय ध्वजानां उपयोगं कुर्वन्ति । एषा भाषा संङ्केतभाषा इति मन्यते । मानवीयभाषा- जनाः स्वभावस्य प्रकटनाय या वाणी व्यवह्रियन्ते सा भाषा मानवीयभाषा इति उच्यते। यत् पूर्वोक्ताः प्रथमा त्रिप्रकाराः अपूर्णाः अस्पष्टाः च सन्ति । ते भावनां व्यक्तुं न शक्नुवन्ति परन्तु मानवस्य भाषा भावेन सह मनसि भाषा सुक्ष्माति सुक्ष्मतया प्रकाश्यते । इयं भाषा अस्माकं पूर्वजानाम् अनुभवेन वयं सर्वे जानीमः। मानवाः सामाजिकाःसन्ति ते स्वविचारशक्तेः व्यक्तुं भाषायाः उपयोगं कुर्वन्ति । दृश्यते यत् मानवजातेः विकासानुसारेण भाषायाः अपि विकासो भवति महाकवि दण्डिनोक्तम् काव्यादर्शे –

PDF URL: View Article in PDF