Author(s): गोविन्दबल्लभपाण्डेय:
Abstract:
सृष्टेः उत्पत्यानन्तरं यथा-यथा मनुष्याणां तर्कक्षमतायाः विकासो सम्भूतः। तथा-तथा तेषां मनसि सृष्टि-जीव-जन्म-मृत्यु मोक्षेश्वरादि - विषयकाः प्रश्नाः समुद्भूताः तेषां उत्तररूपेण अनुसन्धानस्य परम्परा प्रचलिता अथवा परम्परा प्रादुर्भूता । एतस्मिन् एव उपक्रमे ज्ञानराशेः संक्रमणं गुरुशिष्य परम्परा माध्यमेन सञ्जातम् । कालान्तरे लेखनरूपेण सा ज्ञानराशिः ग्रन्थेषु लिपिबद्धो बभूव । भारतम् बहुभाषा-भाषी देशः भारते लेखनार्थं बहुविधयः लिपयः प्रयुज्यन्ते । एताः लिपयः बहुविध साम्यता युक्ताः सन्ति । सर्वाषां लिपीनां वर्णाकृतिः एका अत्यन्तं तर्कपूर्णा ध्वन्यात्मक क्रमे व्यवस्थिता वर्तते । अस्मिन् विषये अन्ताराष्ट्रिय ध्वन्यात्मक संघः (IPA) ध्वन्यात्मक लिपेः निर्माणार्थं स्वीकृतम् ।भारते लेखनस्य उद्भव विषये धार्मिकाः वदन्ति ब्रह्मणा सर्वप्रथमं यस्यां लिप्यां लेखनं कृतं सा लिपि: ब्राह्मी लिपि रूपेण जायते (स्वीक्रियते)।
PDF URL: View Article in PDF
