Author(s): कोलुसु गोविन्दराजुलु
Abstract:
अस्मिन् शोधलेखे 'भारतीयसंस्कृतौ स्तोत्रकाव्यपरम्परा' इत्यमुं विषयमधिकृत्य विस्तरेण विवृतम् । देवतानां गुणकर्मप्रशंसार्थकस्य 'स्तोत्र'शब्दस्य व्युत्पत्तिं प्रदर्श्य, अस्य मुख्यानि प्रयोजनानि (मानसिकशान्तिः, पापमुक्तिः, अभ्युदयसिद्धिश्च) अग्निपुराण-विष्णुसहस्रनामस्तोत्रयोः प्रमाणैः सह प्रतिपादितवन्तः। अलङ्कारशास्त्रदृष्ट्या स्तोत्रकाव्यं श्रव्यकाव्यकोटौ (विशेषतः मुक्तकपरम्परायाम्) अन्तर्भवति । पूर्वाचार्यैः नमस्कार-आशीः-सिद्धान्त-पराक्रम-विभूति-प्रार्थना इति षड्विधं स्तोत्रलक्षणं प्रोक्तम्। ऐतिहासिकविकाशक्रममधिकृत्य वेदेभ्यः आरभ्य उपनिषत्सु, स्मृतिषु, पुराणेषु, महाकाव्येषु च उपलभ्यमानस्य स्तोत्रवाङ्मयस्य विवृतिः कृता। निष्कर्षतः, भारतीयवाङ्मये वैदिक-पौराणिक-काव्यगतादिभेदेन पञ्चधा विभक्ता एषा स्तोत्रकाव्यपरम्परा आदिकालात् आधुनिककालं यावत् भक्तिरसधारया सहृदयानां चेतांसि आह्लादयन्ती देदीप्यते ।
PDF URL: View Article in PDF
