Author(s): कल्पना मुर्म्मू
Abstract:
भास-नाटकीययुगे सामाजिकोत्सवानां आमोद-प्रमोदानां विशेषमेकं महत्त्वं वर्तते। नाटककारभासमता-नुसारम् अनेन आमोद-प्रमोदमाध्यमेन मानवानां मानसिकस्वास्थ्यं सुदृढं भवति। तदर्थं तेन स्वनाटकेषु क्रीडा-आमोद-प्रमोद-उत्सव-विनोदानां विशेषस्थानं दीयते। मानवाः स्वकीये सांसारिकजीवने निरन्तरकार्यकरणेन बहुपरिश्रान्तं भवति। तत् श्रान्तभावं दूरीकरणाय तथा मानसिकस्वास्थरक्षणाय परमावश्यकमस्ति अयं क्रीडा-विनोद-आमोद-प्रमोदमिति। अनेन क्रीडा-विनोदेन जनाः स्वजीवने शक्तिमर्जयन्ति एवं तत् नुतनार्जितेण शक्तिद्वारा ते पुनः कार्याणि कर्तुं शक्नुवन्ति। परन्तु दिवारात्रसर्वदा विनोदे संयुक्तमनुष्यः क्रीडाप्रियं न भूत्वा व्यसनासक्तः भवति। अतः यथोचितं क्रीडाविनोदसेवनेन मानवजीवनस्य सर्वाङ्गीणविकासं भवति, कार्य-क्षमता वर्धयति, श्रान्तभावस्य शमनं च भवति। एतेषां आमोद-प्रमोद-उत्सवादिनां योगदानं मानवजीवने अनस्वीकार्यम्। भासनाटकचक्रे विविधक्रीडा, वनविहारं, जलविहारं, उद्यान-परिभ्रमणं, विनोदं, विविध-गोष्ठी, उत्सवादि प्रचलिताऽऽसीत्।
PDF URL: View Article in PDF
