Author(s): कोलुसु गोविन्दराजुलु
Abstract:
प्रकृते शोधलेखे महाकवि-रामभद्रदीक्षितस्य ऐतिहासिकपृष्ठभूमेः परिचयेन सह तस्य सुप्रसिद्धस्य भक्तिप्रधानकाव्यस्य 'रामस्तवकर्णरसायनस्य' कलात्मकं समीक्षणं विहितम्। रामभद्रदीक्षितः सप्तदशशतके तञ्जावूरस्य शाहजीमहाराजस्य आस्थानकविः आसीत्, यः नीलकण्ठमखिनः प्रशिष्यः तथा पञ्चदशग्रन्थानां कर्ता आसीत् । तस्य कृतिषु 'रामस्तवकर्णरसायनम्' इति स्तोत्रकाव्यं रामभक्तेः पराकाष्ठां द्योतयति । त्रयः निष्यन्दाः (भागाः) तथा ३८३ श्लोकाः अस्मिन् खण्डकाव्ये सन्ति । अस्य रचनायां लीलाशुकस्य 'कृष्णकर्णामृतस्य' स्पष्टः प्रभावः दृश्यते, यतः इदमपि पाठकानां कृते श्रुतिसुखदं रसामृतं वर्षति । काव्यस्य आन्तरिकसौन्दर्यं प्रकटयता लेखकेन प्रतिपादितं यत् सांसारिकमोहे निमग्नानां जनानां पापनिवारणाय श्रीरामसंस्मरणमेव एकमात्रः कल्याणप्रदः मार्गः अस्ति । स्तोत्रे कवेः कल्पनाशक्तिः अतीव रमणीया अस्ति, यत्र जनकसभायां शिवधनुर्भङ्गानन्तरं श्रीरामसीतयोः सात्त्विकं परस्परनिरीक्षणं, चित्रकूटे मन्दाकिन्याः तटे केसरतरोः छायायां सीतायाः शिरः स्वकीये अङ्के निधाय शयानस्य घनश्यामस्य श्रीरामस्य दिव्यं रूपं, तथा सरयूतटे तयोः दाम्पत्यप्रणयविलासः समासोक्त्यलङ्कारेण सजीवः कृतः। निष्कर्षतः एतत् काव्यं संस्कृतसाहित्ये भक्तिरसस्य काव्यकलायाश्च एकम् अनुपमं रत्नं वर्तते, यस्य प्रकृतलेखे सुचारु विवेचनं कृतम्।
PDF URL: View Article in PDF
