Author(s): आचार्य चक्रवर्तिरङ्गनाथन्
Abstract:
आधुनिककाले वनस्पतिविज्ञानविषये वैज्ञानिकाः बहु गवेषणं कुर्वन्ति। वस्तुतः अस्माकं पूर्वजाः स्वकीयेषु ग्रन्थेषु वनस्पतिविषये बहु चर्चां कृतवन्तः, कुर्वन्तः अपि सन्ति। वनस्पतिरेव अस्माकं महती संपद् भवति। तद्विना भूमेः शोभा न भवत्येव। अतः अस्मिन् शोधपत्रे रामायणान्तर्गतवनस्पतिविषये किञ्चित् प्रस्तूयते। कूजन्तं रामरामेति मधुरं मधुराक्षरम्। आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम्॥ (श्रीरामरक्षास्तोत्रम् -३४ श्लोक) इत्यत्र शाखा शब्दः प्रयुक्तः अस्ति। वृक्षशाखाः इति। एवं द्वितीयः भागवन्तं साक्षात् एवं वदन्ति – “निवासवृक्षस्साधूनां आपन्नानां परा गतिः”। रामायण (४-१५-१९) भगवन्तमेव साक्षात् वृक्षरूपेण वदन्ति इति महान् विषयः। एवं “नैमिषारण्ये तत्र भगवान् वनरूपी जनार्दनः” इत्येवं रूपेण कीर्तयन्ति। “चैत्रःश्रीमान् अयं मासः पुण्यः पुष्पितकाननः” (अयोध्या-३-४) इति एकः श्लोकः विद्यते। तदनन्तरं “सप्तशालभञ्जनम्” इति एकः विषयः। सप्तशालवृक्षाः तत्र भगवता रामेण एकैनैव शरेण तत्र भञ्जिताः इति रामायणे अस्ति। एते वृक्षाः कथं भवन्ति इति जानन्ति वा।
PDF URL: View Article in PDF
