लग्नादिद्वादशभावानां फलविचारः

Author(s): प्रज्ञाप्रियदर्शिनी आचार्य

Abstract:

ज्योतींषि अधिकृत्य प्रवृत्तं शास्त्रं ज्यौतिषं शास्त्रम्। यस्मिन् शास्त्रेऽपरिमितगगनमण्डले विद्यमानानां ग्रहनक्षत्राणां तथान्यज्योतिष्पिण्डानां चर्चा क्रियते तदेव ज्यौतिषं शास्त्रम्। व्यस्तबहुलाधुनिकसमाजे जनाः स्वाभीष्टसाधनाय कष्टाद्विमुक्तये च बहुव्यस्ताः व्यथिताश्च भवन्ति। सर्वे स्वस्य सर्वविधक-ष्टनिवारणार्थं यदि च बहूनुपायाननुसरन्ति तदपि प्रत्येकं विषये प्रतिक्षणं ज्योति-श्शास्त्रोक्त-शुभाशुभकालान् शास्त्रोक्तोपायान् च वाञ्छन्त्येव। जातस्य शुभाशुभफलज्ञानाय जन्मकुण्डल्याः आवश्यकता वर्तते। ज्योतिषरत्नाकरे देवकीन-न्दनसिंहेनोक्तम् -“जन्मकुण्डली मनुष्यस्य पूर्वजन्मकृतकर्मणां साक्षादेव मूर्तिरूपा। पूर्वजन्मकर्मणः फलं जन्मकुण्डलीतः उपलभ्यते। यत् किञ्चिद् विस्तृतं तत्त्वं तद् सर्वं पूर्वजन्मजन्मान्तरकृतकर्मफलं जन्मकुण्डल्यां संङ्केतितं निर्दिष्टं च। विद्वांसः दिव्यदृष्ट्या ज्योतिषशास्त्रानुसारेण मनुष्यस्य भुक्ताभुक्तफलानि व्यवस्थिततया प्रकाशितवन्तः”।

PDF URL: View Article in PDF