Author(s): Debabrata Panda
Abstract:
प्रस्तावना- करोति क्रियाजनकत्वं कारकत्वमिति नागेशेन स्वीकृतम्। तच्च साक्षात् परम्परया च गृह्यते। करोति क्रियां निवर्त्तयति सम्पादयति अथवा कर्तृकर्मादिव्यपदेशानिति व्युत्पत्त्या एतादृशोऽर्थः आयाति। जन्यजनकभावघटितक्रियाकारकभावसम्बन्धेन क्रियान्वयीत्यर्थः। एवञ्च ब्राह्मणस्य पुत्रं पन्थानं पृच्छतीत्यादौ ब्राह्मणस्य क्रियाजनकत्वाभावात् कारकत्वं नास्ति। किन्तु पुत्रस्य कारकत्वमस्ति। तेन ब्राह्मणस्य कुलालजनकस्येव अन्यथासिद्धत्वम्। अन्यथासिद्धत्वं नाम यस्य उपस्थित्यभावेऽपि (अवर्त्तमानेऽपि) क्रिया सम्पन्ना भवन्ति। अत्र ब्राह्मणं विनापि पृच्छा क्रिया सम्पन्ना भवति। वैयाकरणभूषणसारे सुबर्थनिर्णये कौण्डभट्ट: सुप्प्रत्ययानामर्थनिरूपणाय तत्र वैयाकरणसिद्धान्तकारिकाम् उद्धरति-
PDF URL: View Article in PDF
