Author(s): पिडुगु नागसाई
Abstract:
संस्कृतसाहित्ये स्तोत्रकाव्यानां महत्त्वपूर्णं स्थानं वर्तते। भक्तिरसस्य माधुर्यगाम्भीर्यादिभिरनेकैः रूपैः कविभिः स्वकीयेषु काव्येषु वर्णनं कृतम्। तेषु भक्तिकाव्येषु श्रीकृष्णकर्णामृतम् श्रीशिवकर्णा-मृतञ्च अद्वितीयस्थानमधिकुरुतः। उभे अपि एते काव्ये 'कर्णामृत'शब्देन विभूषिते स्तः। कर्णयोः आमृतमिव मधुरं पेयमिति हि तयोः नाम्ना अभिधीयते। उभयोः काव्ययोः भक्तिरसेन सह काव्यसौन्दर्यमपि अद्वितीयं वर्तते।
PDF URL: View Article in PDF
