Author(s): डॉ. विष्णुप्रिया जेना
Abstract:
अधुना आधुनिकमानवसमाजे सांस्कृतिकावक्षयवशात् शिक्षितमानवाः पथभ्रष्टाः भवन्ति। पाश्चात्य-संस्कृतिमनुसूत्य भारतीयसंस्कृतिं प्रति अवमाननां कुर्वन्ति। विद्यालय-महाविद्यालयादिषु प्रवेशानन्तरं वहवः छात्राः यथार्थशिक्षाग्रहणं अनादृत्यप्रविधिभिः असामाजिककार्येषु लिप्ताः भवन्ति इति साधारणविषयं केन्द्रीयकृत्य समाधानसूत्रं न विचिन्त्य राजनैतिकचापेन वशीभूताः सन्तः धर्मघटादिमाध्यमेन जातीयसम्पत्तेः विनाशं कुर्वन्ति। अधुना राष्ट्रस्य सकलस्तरेखषु दुर्नीतिः परिव्याप्ता। शिक्षानुष्ठानानि अपि संपृक्तानि सन्ति इति । प्राक्काले एतानि ज्ञानस्य मन्दिराणि आसन्। वाग्देव्याः पीठस्थलानि चासन्। इदानीम् अर्थमाध्यमेन प्रश्नपत्राणि प्राप्यन्ते इति। असदुपायेन स्थानसं-रक्षणादिकार्याणि अपि सम्भवन्ति। फलतः छात्रसमाजस्योपरि कुप्रभावः पतति। अतैव प्रचलित-शिक्षाप्रविद्धिः त्रुटिपूर्णा अनुभूयते इति।
PDF URL: View Article in PDF
