Author(s): मोनालिसा प्रधानः
Abstract:
ब्रह्मपुराणादिषु उत्कलप्रदेशः अतिपवित्रः, तस्य निवासिनश्च सदाचारिणाः धर्मपरायणाश्च इति वर्णितम्। अतः प्राचीनकालादेव प्रदेशेस्मिन् वैदिकधर्मस्य वैदिकदेवताराधनायाश्च प्रचलनमासीत्। अनन्तरं बौद्धधर्मो जैनधर्मश्चाप्यत्र प्रविष्टौ। ऐतिहासिकदृष्ट्या षष्ठ–सप्तमशताब्द्योः ओड्रदेशे माधवोपासनायाः प्रचारे प्रतिष्ठायां च नीलमाधवरूपेण श्रीजगन्नाथस्योपासना प्रवृत्ता इति विश्वासः। पश्चात् बौद्धधर्मस्य प्रभावात् तस्योपासनाविधौ किञ्चित् परिवर्तनम् अभवत्। वज्रयानबौद्धमतस्य विकासकाले श्रीजगन्नाथः "महाबुद्धः" इति नाम्नापि प्रसिद्धः अभवत् इति कथ्यते। नवमशताब्द्यां जगद्गुरुः आदिशङ्कराचार्यः श्रीक्षेत्रम् आगतः। सः अद्वैतवेदान्तस्य प्रवर्तकः सन्नपि जीवस्य ब्रह्मत्वप्राप्तये चित्तशुद्धिं, वेदविहितधर्मपालनं, पञ्चदेवोपासनां च विशेषतः प्रतिपादितवान्। सः भारतस्य विविधतीर्थानि परिभ्रम्य लुप्तदेवपीठानामुद्धारं कृत्वा बौद्धान् पराजित्य स्मार्तमतानुसारं देवपूजां पुनः प्रतिष्ठापितवान्। श्रीक्षेत्रेऽपि तेन तथैव कृतम्।
PDF URL: View Article in PDF
