श्रीपाञ्चरात्रागमे विष्वक्सेनसंहितायां प्रतिमादीनां लक्षणानि

Author(s): Gandhe.Rajeshwari

Abstract:

इह जन्मनि सर्वे मानवाः सुखमेव वाञ्छन्ति। तत्सुखमैहलौकिकं पारलौकिकमिति द्विविधम्। स्वर्गप्राप्तिः पुनरावृत्तिः मोक्षः अपुनरावृत्तिश्च। मोक्षप्रप्तये नैके उपायाः लोके विद्यन्ते। तेषु भक्तिप्रपत्ती मुख्यतमौ स्याताम्। भगवतः श्रीमन्नारायणस्य समाराधनं भक्त्या क्रियमाणेन भगवदनुकम्पां प्राप्नुवाम। ईदृशमारधनं बोधयति पाञ्चरात्रदिव्यशास्रम्। वैष्णवागमः वैखानसपाञ्चरात्रभेदेन द्विविधः। वैखानसं भगवतः विष्णोरंशत्वेन समुत्पन्नेन विखनमहर्षिणा उपदिष्टम्। विखनो मुनिः भृग्वत्रिकश्यप -मरीचेभ्यो चतुर्भ्यो महर्षिभ्यो वैखानसं शास्रमुपदिदेश। पाञ्चरात्रं भगवतः श्रीमन्नारायणस्यानुग्रह विशेषेण सार्धकोटिश्लोकैः महालक्ष्मीः चतुर्मुखः आदिशेषः वैनतेयः विष्वक्सेनः इति पञ्चेभ्यः उपदिष्टत्वात्पाञ्चरात्रमिति नामावाप। तदिदं पाञ्चरात्रं एकायनम्, मूलवेदः भागवतमिति च विशेषेण प्रथते। पाञ्चरात्रशब्दस्य निर्वचने मतभेदः वरीवर्ति। भाषाविज्ञानदृष्ट्या, निरुक्तकारदृष्ट्या, व्याकरणदृष्ट्या वा परिशील्यमाने मतभेदोऽयं स्पष्टतया बोध्यते। महान्तः आधुनिकाः अनुसन्धातारः विषयेऽस्मिन् बहुपरिश्रममकार्षुः।किञ्च संहितासु यानि निर्वचनानि लभ्यन्ते तान्येवास्मकं प्रमाणभूतानीति पाञ्चरात्रा –गमविदामाशयः एव शिरोधार्यः। तत्र बह्व्यः संहिताः पाञ्चरात्रागमशब्दनिर्वचने अग्रेसरा-स्सन्ति। विहगेन्द्रसंहितायां प्रथमपटले सप्तमश्लोके-

PDF URL: View Article in PDF