Author(s): Dr. I. Rajesh
Abstract:
अमृताध्मातमेघाभममृताहरणं विभुम्। पाञ्चरात्रागमाचार्यं वन्दे वैकुण्ठभूपतिम्।। अनाद्यविद्यावासनारूपेण मनुष्यजन्मप्राप्तवतां बद्धानां कर्मबन्धनादस्मात्संसारचक्रात् मुक्तिसम्पा-दनमेव परमलक्ष्यत्वेन लक्ष्यते। उपेयस्य श्रीमन्नारायणस्य सुसायुज्यसम्पादनमेव मोक्ष इति, तत्प्राप्तये कर्मज्ञानभक्तिरूपोपाया इति साक्षाद्भगवता श्रीकृष्णपरमात्मना गीताया-मुपदिष्टम्। त्रिष्वप्युपायेषु भगवदनुग्रहप्राप्तिरूपं कर्मैव, तत्कर्मापि समाराधनरूपक्रिया विधि -रिति बहुषु ग्रन्थेषु दृश्यते। तद्यथा -
PDF URL: View Article in PDF
