Author(s): Dr. P.T.G.Ranga Ramanujacharyulu
Abstract:
भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा इत्याभाणकमनुसृत्य कृत्स्ने प्रपञ्चे भारतदेश-स्यौन्नत्यं केवलं संस्कृतभाषा तथा संस्कृतशास्त्राणामभिवृध्यर्थञ्च देशे प्रत्येकस्मिन् राज्ये कोणे कोणे प्रकाशमानाः सहस्राधिकाः महान्तः विद्वद्धौरेया आविर्बभूवुः। ते सर्वे निजपाण्डित्येन नित्यानुष्ठाना-चरणेन च विभिन्नशास्त्रेषु कृतभूरिपरिश्रमाः समजायन्त।क्रमेस्मिन् विशिष्यान्ध्रदेशे बहवः पण्डिताः स्वशास्त्रपाण्डित्येनाजीवनं संस्कृतभाषायाः तथा कतिपयशास्त्राणां प्रकाशनमकार्षुः। तेषु सुप्रसिद्धाः प्रातःस्मरणीयाः न्यायमीमांसाविशिष्टाद्वैतवेदान्तवेदागमसाहित्यादिशास्त्रेषु महान्तः निष्णाताःतथैव विशिष्टप्रशासनदुरन्धराः संस्कृतान्ध्राङ्ग्लभाषासु कतिपयग्रन्थकर्तारः श्रीवैष्णवसम्प्रदाय-नैष्ठिकाः आचार्य श्रीमद्भागवतं रघुनाथाचार्याः अवश्यमनुसन्धेयाः।
PDF URL: View Article in PDF
