सत्कार्यवादः

Author(s): नारायण-चन्द्रः मेट्याः गोपी-कृष्णन्-रघुः

Abstract:

भारतीयदर्शनेषु सत्कार्यवादः सुप्रसिद्धः। स च वादः सांख्यतत्वविद्भिः स्वीक्रियते। कश्च स सत्कार्यवादः इति चेत् कार्यम् उत्पत्तेः पूर्वमपि सदेवेति। शून्यवादिनः बौद्धाः वदन्ति कारणं भवति अभावात्मकम् असत्, तस्मात् असतः सत् कार्यम् उत्पद्यते। नैयायिकवैशेषिकाः च वदन्ति उत्पत्तेः पूर्वं कार्यम् अविद्यमानं भवति। अतः नूतनमेव कार्यं कारणात् जन्यते इत्यतः ते असत्कार्यवादिनः इति कथ्यन्ते। अद्वैतिनः च वदन्ति कारणमेव सत्, ततः च सतः कारणात् अनिर्वचनीयं कार्यम् उत्पद्यते इत्यतः ते विवर्तवादिनः इति कथ्यन्ते। तदा सांख्याः वदन्ति उत्पत्तेः पूर्वं कारणे कार्यम् अव्यक्तरूपेण भवति इत्यतः ते सत्कार्यवादिनः इति कथ्यन्ते। यथा— तैलम् उत्पद्यते यदा तदा तैलं तिलेषु पूर्वतः एव वर्तते।

PDF URL: View Article in PDF