हर्षदेवमाधवस्य क्षणे क्षणे इति काव्ये समाजतत्वम्

Author(s): जगदीशनन्दः

Abstract:

बहुजन्मादनन्तरं बहुपुण्यवलेन मनुष्यजन्म जनाः प्राप्नुवन्ति । परन्तु दुःखस्य विषयः कतिपयानां जनानां (आतङ्कवादीनां/सन्त्रासवादीनां) क्रुरतायाः कारणात् अकारणादेव मृत्युपथं गच्छन्ति । काश्मीरं भारतस्य भूस्वर्गः इति उच्यते । यत्र जनाः गत्वा हिमखण्डस्य, तत्रस्थ प्राकृतिकसौन्दर्यस्य च उपभोगं कुर्वन्ति । न केवलं भारतवर्षस्य अपितु भारतवर्षाद् बहिरपि जनाः तत्र गत्वा सानन्देन समयं यापयन्ति। ऐषमः अर्थात् २०२५ वर्षस्य अप्रेलमासस्य २२ तारिकायाम् एका घटना घटिता । अप्रेलमासे उष्णतायाः आधिक्यत्वात् जनाः काश्मीरं गत्वा हिमखण्डस्योपरि भ्रमणमकुर्वन् । जम्मुकश्मीरस्य पहलग्रामनिकटे पर्यटकानां भ्रमणसमये सहसा केचन संत्रासवादिनः आगत्य जनान् तेषां धर्मं पृष्ट्वा ये हिन्दुधर्मावलम्बिनः आसन् तेषामुपरि गुलिकावर्षणमकुर्वन् । प्रायशः षड्विंशति जनाः तत्र प्राणत्यागं कृतवन्तः । यद्यपि इयं घटना अधुना घटिता परन्तु एतेषां संत्रासवादिनां क्रुरता विषये कविः हर्षदेवः पूर्वमेव लिखितवान् यत्

PDF URL: View Article in PDF