Author(s): डॉ. पिताम्बरमिश्रः
Abstract:
“प्रमाणानां हि प्रामाण्यं स्वतोऽस्तिपरतोऽथवा। गुरुन् तत्वा यथाशास्त्रं वर्ण्यतेऽत्र यथामति”॥ प्रमाणानां प्रामाण्यविचारे चतस्र विप्रत्तिपत्तयः सन्ति। तत्र प्रामाण्यमप्रामाण्यमुभयमपि स्वत एवेति सांख्याः । यतो ह्यत्र मते एकतरस्यापि परतस्त्वस्वीकारे सत्कार्यवादस्य हानिः स्यात्। तार्किकास्तू-भयमपि परत एव। अत्रमते वेद ईश्वरोच्यरितः पौरुषेयो विद्यते। अतः वस्तुगत गुणदोषवशात्प्रणेषु प्रामाण्यमप्रामाण्यं निश्चीयते। बौद्धास्तु प्रामाण्यं परत अप्रामाण्यं स्वत एवेति स्वीकुर्वन्ति। बौद्धमतेऽभावो नहि कार्यं भवति। अप्रामाण्यञ्च प्रामाण्याभारुपम्। एवञ्चाभावरूपत्वादप्रामाण्यस्य तत्र स्वतस्त्वम्। वेदस्यापौरूषेयत्ववादिनां मीमांसकानां मते तु प्रामाण्यं स्वतः गृह्यते अप्रामाण्यन्तु परतः। तत्र सांख्यानामुभयमपि स्वत इति तु न विचारसहम्, प्रामाण्याप्रामाण्ये मिथोविरुद्धौ धर्मौ । तत्काथमेक-कालावच्चेदेनैकत्रोभाववतिष्ठेताम्। किं च शुक्तौ यद्रजतज्ञानं प्रतिपन्नं तत्प्रमाणतया वाऽप्रमाणतया। यदि प्रमाणतया प्रतिपन्नं तर्हि गत्वा समीपं कथं न लभ्यते । रजतं यदि चाप्रामाणतया प्रतिपन्नं तर्हि प्रवर्त्तते कथम् ? अत उभयमपि स्वत इति त्वसाम्प्रतम्। उभयमपि परतो यथा स्वीक्रियते तदग्रे विचारयामि। बौद्धानां यदप्रामाण्यं स्वतो गृह्यते इति मतं तत्तु बलुकामूलभित्त्याधारितमेवेति पूर्व निपात्यते अत्रायमभिप्रायो मुण्डितानाम् अप्रामाण्यं नाम पामाण्याभावः अत अप्रामाण्यं नास्ति वस्तु। अवस्तुन उत्पत्यभावात् अकारणत्वनपेक्षत्वम्। अतो दोषादपि प्रामाण्याभावरूपमप्रामाण्यं नोत्पन्नं भवतीति सिद्धम्। एवञ्च दोषस्योत्पादकत्वरूप कारणत्वाभावन्नास्ति ज्ञापकत्वमप्रामाण्यस्य। प्रमाण्यन्तु भावरूपं वर्तते। अतस्तदुत्पतै गुणस्यकारणत्व स्वीकारे नास्ति काचिद्विप्रतिपत्तिः।
PDF URL: View Article in PDF
