Author(s): ज्योतिरञ्जननन्दः, डॉ चित्तरञ्जननायकः
Abstract:
वेदपुरुषस्य षड्अङ्गेषु नयनत्वेन विद्यते ज्योतिषशास्त्रम् । इदम् द्युत् दीप्तौ इत्यस्मात् धातोः “द्युतेरिसन्नादेश्च जः” इति उणादिसूत्रेण धातोः इसन् प्रत्यये कृते पुनश्च धातोः आदेः दकारस्य जकारे कृते ज्युत् इसन् इति प्राप्ता , अनुबन्धलोपे कृते ततः “पुगन्तलघुपधस्य च” इत्यनेन लघुपधस्य गुणे कृते सति ज्योतिस् इति अवस्था प्राप्ता । पुनश्च “आदेशप्रत्यययोः” इत्यनेन सकारस्य स्थाने ष कारे कृते सति ज्योतिष् इति अवस्था प्राप्यते । पुनश्च ज्योतिर्नक्षत्रादि अधिकृत्य कृतो ग्रन्थः इत्यर्थे “अधिकृत्य कृते ग्रन्थे” इत्यनेन अण् प्रत्यये कृते सति पुनश्च “तद्धितेष्वचामादेः” इत्यनेन सूत्रेण आदेः अचो वृद्धौ ज्योतिष इति शब्दः निष्पन्नः । पुनश्च शास्त्रस्य विशेषणत्वात् नपुंसके ज्योतिषं इति रुपं भवति । सिद्धान्त-संहिता-होरा इति त्रयस्स्कन्धाः वर्तन्ते ज्योतिषशास्त्रे । होरा-संहिता स्कन्धे यत् शुभाऽशुभफलनिर्णयः क्रियते ,तस्यैव अङ्गभूतं वर्तते सामुद्रिकशास्त्रम् ।
PDF URL: View Article in PDF
