सामवेदीय-आग्नेय-काण्डान्तर्गतम् अग्निस्वरूपम् (सायण-सुबोधभाष्याधारेण)

Author(s): हरिश्चंद्र मालू गवस, प्रो.हरेकृष्ण अगस्ती

Abstract:

चतुर्षु वेदेषु अन्यतमो वर्तते सामवेदः। भगवता श्रीकृष्णेनापि “वेदानां सामवेदोऽस्मि”1 इत्येनेन वाक्येन सामः प्रशंसितः । सामवेदः, सामगानभेदात्, गानवैशिष्ट्यात् लोके प्रसिद्धः। “ सामानि यो वेत्ति स वेद तत्त्वम्” यो हि सामाध्ययनं करोति सो वेदतत्वं जानाति। पूर्वार्चिक-उत्तरार्चिकेति भेदेन सामः द्विधा विभज्यते। सामवेदीय-पूर्वार्चिके आग्नेयं-ऐद्रम्-पवमान-आरण्यकेति चत्त्वारि काण्डानि सन्ति। ऋग्वेदात् बहवः मन्त्राः स्वीकृताः। अत एव वक्तुं शक्यते यत् सामवेदे प्रायः स्तुतिमन्त्राः सन्ति। प्रत्येकं वेदस्य भाष्यकाराः सन्ति । तेषु भाष्यकारोऽस्ति माधवः, अनेन महोदयेन सामविवरणं नामकं भाष्यं लिखितम्। भरतस्वामिनापि सामसंहितोपरि भाष्यं रचितम् । सम्प्रति भाष्यमिदं नोपलभ्यते। बाणभट्टादीनां कवीनां ग्रन्थेषु एतेषामुल्लेखः प्राप्यते। गुणविष्णुनापि सामभाष्यं विलिखितम् । सायणस्तु चतुर्वेद-भाष्यकाररूपेण विख्यातो वर्तते। अनेन आचार्येण वैज्ञानिकव्याख्यात्मकं भाष्यं कृतम्। सातवलेकरमहोदयेन सुबोधनामकं भाष्यं लिखितम्। सायणसातवलेकरमहोदययोर्भाष्यमु-पलभ्यते। आचार्यसातवलेकरवर्येण वेदप्रचारप्रसारसम्बद्धं महत्कार्यं कृतम्। अनेन चतुर्वेदसंहितानामपि प्रकाशनं कृतम् । अनयोः भाष्यकारयोर्दृष्ट्या सामवेदीय आग्नेयकाण्डान्तर्गतम् अग्निस्वरूपं विश्लेषणं क्रियते।

PDF URL: View Article in PDF