Author(s): Dr. Markanda Nayak
Abstract:
शब्दज्ञानं व्याकरणाधीनम्। सः शब्दो ब्रह्मरूपः। शब्दज्ञानं वृत्तिज्ञानाधीनम्। अतः नागेशेन परमलघुमञ्जूषायामुक्तम्–तद्धर्मावच्छिन्नविषयकशाब्दबोधित्वावच्छिन्नं प्रति तद्धर्मावच्छिन्ननिरूपित वृत्तिविशिष्टज्ञानं हेतुः। ज्ञाने वृत्तिवैशिष्ट्यञ्च स्वविषयकोद्भूतसंस्कारसमानाधिकरण्यं स्वाश्रयपद-विषयकत्वोभयसम्बन्धेन बोध्यम् । वृत्तिशब्दोऽयं संस्कृतव्याकरणे पारिभाषिकोऽस्ति । अयं वृत्तिशब्दः द्रुतमध्यमविलम्बिताख्याये, शब्दार्थसम्बन्धवाचके,जीविकार्थके,चित्तस्यावस्थाविषये इत्यादिवहुष्वर्थेषु व्यवह्रियते । अत्रास्मिन् चर्चासत्रे आलोच्यविषयः समासोऽस्ति । अतः तत्र वृत्तिशब्दः कमर्थं प्रकाशयति तद्विषये यथामत्युपस्थाप्यते। सिद्धान्तकौमुद्यां समासप्रकरणे आदौ ’समर्थः पदविधिः“ इति सूत्रमुट्टङ्कितमस्ति । षड्विधेषु सूत्रेषु परिभाषासूत्रमिदमिति नागेशाचार्येण परिष्कृतमस्ति । अस्मिन् सूत्रे महाभाष्ये वृत्तेः लक्षणमुपस्थाप्य कथितं यत् परार्थाभिधानं वृत्तिः । अस्मिन् सूत्रे कैयटेनापि प्रोक्तं यत् परस्य शब्दस्य योऽर्थः तस्याभिधानं शब्दान्तरेण यत्र सा वृत्तिरित्यर्थः । यथा राजपुरुष इत्यत्र राजशब्देन याक्यावस्थायामुक्तः पुरुषार्थोऽभिधीयते। प्राचीनवैयाकरणानां मते वृत्तिः पञ्चधा यथा- कृत्तद्धितसमासैकशेषसनाद्यन्ताः। किञ्च नवीनवैयाकरणानां मते वृत्तिरियमेकशेषमस्वीकाराच् चतुर्धेति।७ अतः समासस्यापि वृत्तिपदेन ग्रहणम्।
PDF URL: View Article in PDF
