शब्दब्रह्मणि निष्णान्तः परंब्रह्माधिगच्छति

Author(s): Dr. Markanda Nayak

Abstract:

विष्टपेऽस्मिन् युगे युगे व्याकरणशास्त्रस्य aन केवलं प्रक्रियासिद्धत्वमपि तु दर्शनशास्त्रत्वमपि वरीवृत्यते। द्वादशदर्शनानामालोडनेन उपनिषदाञ्च अन्वेषणेन यद्दार्शनिकतत्त्वं निःसरति तदेव दार्शनिकतत्त्वमध्यात्मव्याकरणशास्त्रेऽस्मिन् वरीवर्ति। अस्मिन् भारतवर्षे अध्यात्मशास्त्रादृते अन्यस्य शास्त्रत्वं नाङ्गीक्रियते। अतः भारतीयशास्त्रपरम्परायामध्यात्मिकविद्यायाः महन्महत्त्वं वरिवर्ति। तादृशविद्यायाः चिन्तनमननपराकाष्ठा अनुभवसिद्धा। धर्मश्च तस्याः शाश्वतिकः। अतः जगदिदं किं पारमार्थिकं सत्यम्। कस्य परिणामो विवर्तो वेति दार्शनिकविचारजातमभिलक्ष्य तार्किकमीमांसकवेदान्तिप्रभृतिभिः सुधिभिः स्व-स्व-सिद्धान्ताभिनिवेशेन बहवो ग्रन्थाः ग्रथिताः। सुकुमारमतिपरोपकारैकपरा आलङ्कारिका अपि तमेव मार्गमनुसृत्य रसस्य ब्रह्मानन्दोसहदरत्वं ब्रह्मानन्दस्वरूपकत्वं वा समर्थ्यमाना बलात् स्वल्पमपि दर्शनशास्त्रविषयं स्वशास्त्रे प्राविशन्। दार्शनिकविषयनिरूपणं विना व्याकरणशास्त्रस्य तादृशी प्रतिष्ठा न स्यात्, यादृशी अभिप्रेता आसीत्। अतः व्याकरणशास्त्रेऽपि दर्शनशास्त्रविषयश्चासीत् । भारतीयसंस्कृतेः आदिमग्रन्थे ऋग्वेदे वाचः स्वरूपविषये शब्दस्य नित्यत्वविषये च चर्चा विहिता यथा- वाचा विरूपनित्यया । अथर्ववेदेऽपि वाचः वर्णनं प्राप्यते ।

PDF URL: View Article in PDF