बङ्गकविबाणेश्वरविरचितचित्रचम्पूकाव्यस्य रसतात्त्विकविश्लेषणम्

Author(s): कौशिक हालदारः

Abstract:

बङ्गदेशीयमहाकविबाणेश्वरभट्टेन विरचितं बैष्णवभक्त्याश्रितं चित्रचम्पूकाव्यम्। इत्यस्मिन् काव्ये बर्धमानराजचित्रसेनस्य स्वप्नावस्थायां वैकुन्ठभ्रमणं वर्णनाचातुर्येण प्रतिपाद्यते। शान्तरसस्यैव अत्र प्राधान्यता विद्यते। परन्तु अपराः रसाः अपि अङ्गरसरूपेण विद्यन्ते। तेषां रसानां लक्षणं बिधाय पर्यालोचनापूर्वकं सश्लोकैः विचारः पुनः विश्लेषणमत्र प्रदास्यते। शोधपत्रेऽस्मिन् वैष्णवभक्तिप्रसूतचम्पूकाव्ये अङ्गीरसरूपेण शान्तरसः पुनः अपराः वीरबीभत्सरौद्र-भयानकादिरसाः अङ्गरूपेण कथं प्रतिपादितं महाकविना वाणेश्वरेण तदेव प्रतिपादनं मम शेधपत्रस्य मूलाशयः। अपि चात्र अलङ्कारसम्प्रदायाः, तेषु षट्-सम्प्रदायेषु रससम्प्रदायस्य अवस्थानं प्रवर्तकः गुरुत्वं च समुपवर्णिताः।

PDF URL: View Article in PDF