काश्मिरोदयखण्डकाव्ये काश्मीरस्य दर्शनीयस्थानानि

Author(s): तृप्तिमयी होता

Abstract:

ऋगवेदादारभ्य संस्कृतवाङ्मयस्य तरङ्गिणी अद्यावधि लौकिकमहाकाव्यसमुद्रे अक्षुर्णतां धारयति । ऋगवेदे प्राप्तसम्बादसूक्तस्याख्यानं, तस्य विस्तृतं व्याख्यानं च ब्राह्मणग्रन्थे तु लभ्यते । परन्तु एतादृशमाख्यानं तावत् संपूर्णं न भवति , यावत् इतिहासपुराणानामनुशीलनं न क्रियते । पुराणेभ्य पूर्वमपि ऐतिहासिकग्रन्थानां परिचयः दृश्यते । यत् प्रागेव उक्तम् “इति ह आस” इति निरुक्त उक्त्यानुसारं पूर्वघटितानां प्रत्यक्षवर्णनमेव इतिहासग्रन्थानां मुख्यविषयो भवति । व्युत्पत्यार्थानुसारेण इतिहासकेवलं प्राचीनकथाभ्यः शिक्षां स्वीकृत्य वर्तमानं भविष्यतकालं प्रति जागरुकं भवति । शिक्षा दृष्ट्या महाभारतम् अन्येषु इतिहासेषु श्रेष्ठमस्ति । उक्तमस्ति यत्

PDF URL: View Article in PDF